8 अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
9 सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,
10 किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।