1 ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।
2 अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।
3 सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।
4 इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।
5 तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।