13 अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।
14 त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।
15 अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।
16 पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।