14 तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।
15 तथा नीकलायतीयानां शिक्षावलम्बिनस्तव केचित् जना अपि सन्ति तदेवाहम् ऋतीये।
16 अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थखङ्गेन तैः सह योत्स्यामि।