1 अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।
2 अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।