12 तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।
13 पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति।
14 नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।