18 तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।
19 नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य,
20 पञ्चमं वैदूर्य्यस्य, षष्ठं शोणरत्नस्य, सप्तमं चन्द्रकान्तस्य,अष्टमं गोमेदस्य, नवमं पद्मरागस्य, दशमं लशूनीयस्य, एकादशं षेरोजस्य, द्वादशं मर्टीष्मणेश्चास्ति।
21 द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।