1 अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।
2 प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।