11 पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।
12 यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।