3 अपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
4 ततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि।