7 अनन्तरं चतुर्थमुद्रायां तेन मोचितायां चतुर्थस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
8 ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।