1 अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।
2 अनन्तरं सूर्य्योदयस्थानाद् उद्यन् अपर एको दूतो मया दृष्टः सोऽमरेश्वरस्य मुद्रां धारयति, येषु चर्तुषु दूतेषु पृथिवीसमुद्रयो र्हिंसनस्य भारो दत्तस्तान् स उच्चैरिदं अवदत्।
3 ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां।
4 ततः परं मुद्राङ्कितलोकानां संख्या मयाश्रावि। इस्रायेलः सर्व्ववंशाीयाश्चतुश्चत्वारिंशत्सहस्राधिकलक्षलोका मुद्रयाङ्किता अभवन्,
5 अर्थतो यिहूदावंशे द्वादशसहस्राणि रूबेणवंशे द्वादशसहस्राणि गादवंशे द्वादशसहस्राणि,
6 आशेरवंशे द्वादशसहस्राणि नप्तालिवंशे द्वादशसहस्राणि मिनशिवंशे द्वादशसहस्राणि,
7 शिमियोनवंशे द्वादशसहस्राणि लेविवंशे द्वादशसहस्राणि इषाखरवंशे द्वादशसहस्राणि,
8 सिबूलूनवंशे द्वादशसहस्राणि यूषफवंशे द्वादशसहस्राणि बिन्यामीनवंशे च द्वादशसहस्राणि लोका मुद्राङ्किताः।