Pular para o conteúdo
Publicidade

Acts 12:5-12

5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।

6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।

9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।

11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।

12 स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.