41 ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
42 प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।
43 प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।
44 विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।
45 फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
46 सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
47 परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।