3 पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।