1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।
2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
3 तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स खञ्जस्तौ किञ्चिद् भिक्षितवान्।
4 तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।
5 ततः स किञ्चित् प्राप्त्याशया तौ प्रति दृष्टिं कृतवान्।
6 तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।
7 ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।
8 ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।
9 ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य
10 मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।