32 अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
33 अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।
34 तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय
35 तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।