12 किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।
13 शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।