1मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।
4प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।
8प्रेम्नो लोपः कदापि न भविष्यति, ईश्वरीयादेशकथनं लोप्स्यते परभाषाभाषणं निवर्त्तिष्यते ज्ञानमपि लोपं यास्यति।