15 स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
16 यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
17 स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
18 स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
19 यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
20 क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।