13 यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।
14 यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।