19 अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।
20 अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।
21 तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते।
22 यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।