25 अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।
26 अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।
27 अपरं शयताने स्थानं मा दत्त।
28 चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
29 अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।