41 स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42 पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।