45 पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46 तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।