1 अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
2 या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
3 अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
4 तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
5 यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
6 तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।
7 ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।
8 ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
9 यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
10 किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।
11 इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
12 यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,
13 हे गुरो स यदि निद्राति तर्हि भद्रमेव।
14 तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;