9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
10 अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।