7 तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
8 ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
9 ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
10 युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
11 एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।