12 तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।
13 एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।
14 अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।
15 किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।
16 ततः पीलातो यीशुं क्रुशे वेधितुं तेषां हस्तेषु समार्पयत्, ततस्ते तं धृत्वा नीतवन्तः।