4 तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि।
5 ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।
6 तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्।