19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।
20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।
21 यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
22 इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।
23 यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।