21 यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति।
22 यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
23 किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।