31 एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।
32 ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।
33 तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
34 यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।