1 ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।
2 तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।
3 तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
5 तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6 यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
7 ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।
8 तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9 स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।