19 एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।
20 सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;
21 अथ श्वान आगत्य तस्य क्षतान्यलिहन्।
22 कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।
23 पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;
24 हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
25 तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।
26 अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति।
27 तदा स उक्तवान्, हे पितस्तर्हि त्वां निवेदयामि मम पितु र्गेहे ये मम पञ्च भ्रातरः सन्ति
28 ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय।
29 तत इब्राहीम् उवाच, मूसाभविष्यद्वादिनाञ्च पुस्तकानि तेषां निकटे सन्ति ते तद्वचनानि मन्यन्तां।
30 तदा स निवेदयामास, हे पितर् इब्राहीम् न तथा, किन्तु यदि मृतलोकानां कश्चित् तेषां समीपं याति तर्हि ते मनांसि व्याघोटयिष्यन्ति।
31 तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।