14 ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 स चासीत् शोमिरोणी।
17 तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।