4 तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
5 यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
6 अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते
7 सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।