48 तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।
49 ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?
50 किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां।
51 ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।