34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
35 पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।