33 ततस्ते प्रोचुः, योहनः फिरूशिनाञ्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भुञ्जते पिवन्ति च?
34 तदा स तानाचख्यौ वरे सङ्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?
35 किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।