11 परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
13 प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
14 तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
15 तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
16 तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
17 ततः परं समस्तं यिहूदादेशं तस्य चतुर्दिक्स्थदेशञ्च तस्यैतत्कीर्त्ति र्व्यानशे।