24 तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?
25 यूयं किं द्रष्टुं निरगमत? किं सूक्ष्मवस्त्रपरिधायिनं कमपि नरं? किन्तु ये सूक्ष्ममृदुवस्त्राणि परिदधति सूत्तमानि द्रव्याणि भुञ्जते च ते राजधानीषु तिष्ठन्ति।
26 तर्हि यूयं किं द्रष्टुं निरगमत? किमेकं भविष्यद्वादिनं? तदेव सत्यं किन्तु स पुमान् भविष्यद्वादिनोपि श्रेष्ठ इत्यहं युष्मान् वदामि;
27 पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।
28 अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।
29 अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।