23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
25 तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।
26 ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।