28 तदा पितर उवाच, पश्य वयं सर्व्वं परित्यज्य भवतोनुगामिनो जाताः।
29 ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा
30 गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति।
31 किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति।