9 किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।
10 शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।