6 किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।
7 दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
8 अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।
9 अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।