3 अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
4 वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
5 कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
6 किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
9 अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।