1 अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।
2 नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।
3 स श्मशानेऽवात्सीत् कोपि तं शृङ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्।
4 जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
5 दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्।
6 स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,
7 हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।
8 यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ।
9 अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके ऽस्मस्ततोऽस्मन्नाम बाहिनी।
10 ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त।
11 तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
12 तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
13 यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
14 तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः