22 अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;
23 मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।
24 तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।