25 अथ द्वादशवर्षाणि प्रदररोगेण
26 शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःखं भुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च
27 या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।
28 अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श।
29 तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।
30 अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा ज्ञात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं?
31 ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?
32 किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्।
33 ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।
34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।